In this article we practice some shlokas written below to read and pronounce and repeat 3 times
So, Let's start,
1.🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत - 🗣 🗣
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।
माधवः पाण्डवश्चैव दिवयौ शङ्खौ प्रदध्मतुः।।१४।।
🌻 भावार्थ 🌻
इसके अनन्तर सफेद घोड़ोंसे युक्त उत्तम रथमें बैठे हुए श्रीकृष्ण महाराज और अर्जुनने भी अलौकिक शङ्ख बजाये।
2.🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत - 🗣 🗣
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ।।१५।।
🌻 भावार्थ 🌻
उनमें श्रीकृष्ण महाराजने पाञ्चजन्य नामक, अर्जुनने देवदत्त नामक (और) भयानक कर्मवाले भीमसेनने पौण्ड्रनामक महाशङ्ख बजाया।
3.लेखबन्ध उच्चारणं प्रयास कुरूत - 🗣🗣
🌻 स्वामी विवेकानन्दः 🌻
सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ट्यधिकशततमे(१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। तस्य पिता श्री विश्वनाथदत्तमहोदय:। पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। एषः उत्साही, हास्यप्रियः, करुणापरः च आसीत्। नरेन्द्रः बाल्ये कपीन्, मयूरान्, कपोतान् च पालयति स्म। एषः पितुः हयान् अपि रक्षति स्म। अध्ययनपटुरयं नरेन्द्रः शास्त्रीयसङ्गीतस्य अभ्यासं करोति स्म। प्रतिदिनं व्यायामं करोति स्म। ध्यानसिद्धः अयं भ्रूमध्ये ज्योतिरेकं पश्यति स्म। ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान्? इति। ईश्वरं ज्ञातुं पाश्चात्यदर्शनस्य भारतीयदर्शनस्य च गभीरम् अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातकपदवीम् अधिगतवान्। अस्मिन्नेव समये दैवयोगात् दक्षिणेश्वरस्थे कालीमन्दिरे परमहंसस्य रामकृष्णदेवस्य दर्शनं तेन प्राप्तम्। रामकृष्णमुद्दिश्य नरेन्द्रः पृष्टवान् ‘किं भवान् ईश्वरं दृष्टवान् ?’इति। ‘आम्। त्वामिव ईश्वरमपि पश्यामि’ इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः नरेन्द्रस्य अध्यात्म-गुरुः अभवत्। सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्दः इति अभवत्। अयं च नरेन्द्रः भारतभ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादशत(१८९३)तमे वर्षे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसभायां भारतस्य गौरवं प्रतिष्ठापितवान् । तत्र सभास्थले विविध धर्मग्रन्थाः एकस्य उपरि एकः इति क्रमेण स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेषां पुस्तकानाम् अधः आसीत् । एकः अमेरिकावासी उपहासपूर्वकम् अवदत् - ‘स्वामिन्। भवतां गीता सर्वेषां धर्मग्रन्थानाम् अधः वर्तते’ इति । प्रत्युत्पन्नमतिः स्वामी विवेकानन्दः हसन्नेव प्रत्यवदत् - ‘आम् । सत्यम्। आधारशिला तु अधः एव भवति। सा यदि बहिः स्वीक्रियेत तर्हि समग्रम् अधः पतिष्यति’ इति। विदेशेषु वेदान्तधर्मस्य प्रचारं कृत्वा भारतं प्रत्यागतः सः देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा, स्वास्थ्यरक्षा, स्त्रीशिक्षा, आधुनिकप्रौद्योगिकी प्रभृतिषु क्षेत्रेषु असाधारणं कार्यं कर्तुं ‘रामकृष्णमिशन्’ इति संस्थां संस्थाप्य जनेषु शक्तिजागरणं कृतवान्। स्वामिविवेकानन्दस्य अयं सन्देशः अद्यापि भारतीयान् प्रेरयति - "उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत।
4.🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत - 🗣 🗣
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ।।१६।।
🌻 भावार्थ 🌻
कुन्तीपुत्र राजा युधिष्ठिरने अनन्तविजय-नामक (और) नकुल तथा सहदेवने सुघोष और मणिपुष्पक-नामक शङ्ख (बजाये)।
5.🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत -🗣 🗣
काश्यश्च परमेष्वासः शिखण्डी च महारथः।
धृष्टधुम्नो विराटश्च सात्यकिश्चापराजितः।।१७।।
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते।
सौभद्रश्च महाबाहुः शंखान्दध्मुः पृथक्पृथक् ।।१८।।
🌻 भावार्थ 🌻
श्रेष्ठ धनुषवाले काशिराज और महारथी शिखण्डी एवं धृष्टधुम्न तथा राजा विराट और अजेय सात्यकि, राजा द्रुपद एवं द्रौपदीके पाँचों पुत्र और बड़ी भुजावाले सुभद्रापुत्र अभिमन्यु -(इन सभीने), हे राजन् ! सब ओरसे अलग-अलग शङ्ख बजाये।
I hope you enjoyed practicing sanskrit, to get new articles keep visiting my blogs regularly
😊😊😊have a good day😊😊😊

0 Comments