Learn sanskrit easily lesson-02


In this article we learn more about sanskrit with practice questions and answers

Let's start the lesson

 संस्कृतम्:

🌻 द्वितिय पाठः 🌻


📃सामान्य: वाक्यम्  १


१ एताः काः ?

एताः स्थालिकाः

किम् एताः गोलाकाराः ?

आम् , एताः गोलाकाराः एव।


२. सा का ?

सा घटिका।

घटिका किम् सूचयति ?

घटिका समयं सूचयति


३. एते के ?

किम् एते कोकिले?

न, एते चटके।

चटके किम् कुरुत: ?

एते विरहत: 


४. ते के ?

ते चालिके स्त: 

ते किम् कुरुत: ?

ते वाहनं चालयत: 


५.  एषा का ?

एषा दोला।

दोला कुत्र अस्ति ?

दोला उपवने अस्ति ।


६. ताः काः ?

ताः अजाः 

ताः किं कुर्वुन्ति ?

ताः चरन्ति ।

                शब्दर्था :-

एषा             :- यह (स्त्री.)

दोला            :- झुला

कुत्र             :- कहाँ 

उपवने          :- बगीचे में 

घटिका         :- घडी़

सुचयति        :- सुचित करती है।

कोकिले        :- दो कोयल 

एते             :- ये (द्विवचन, स्त्री.)

चटके          :- दो गोरैया 

कुरुतः         :- करती है।

विरहतः       :- फुदक रही है।

चालिके       :- दो महिला ड्राइवर

चालयतः     :- चलाती हैं।

एताः          :- ये (बहुवचन, स्त्रीलिगं)

स्थालिकाः   :- थालियाँ

आम्         :- हाँ

एव           :-  ही

अजाः        :-  बकरियाँ

चरन्ति        :-   चरती है


📃 सामान्य: वाक्यम् २

कोष्टकात् उचितं शब्दं चित्वा वाक्यम् पुरयतं:- 

तथा :- बालिका पठति। ( बालिका/ बालिका:)

(क)_________चरत: । (अजा: / अजे)

(ख)_________सन्ति । (द्विविचक्रिके / द्विचक्रिकाः)

(ग)__________ चलति । ( नौके / नौका)

(घ)__________अस्ति । ( सूचिके / सूचिका)

(ड)__________उत्पन्ति । (मक्षिका: / माक्षिके)


📖 प्राग्लिखित प्रश्नाः उतराणि :- (Answers)

(क)  अजे

(ख) द्विचक्रिकाः

(ग) नौका

(घ) सूचिका

(ड) मक्षिकाः


📄 सामान्यः वाक्यम् ३

सा, ते, ताः इत्येतेभ्य: उचितं सर्वनामपदं  चित्वा रिक्तस्थानानि पुरयत :-

यथा - लता अस्ति   सा अस्ति।

(क) महिलाः धावन्ति।   ____धावन्ति।

(ख) सुधा वदति।   __वदति।

(ग) जवनिके दौलतः  _दौलतः।

(घ) पिपीलिकाः चलन्ति  ____चलन्ति।

(ड) चटके कूजतः _ कूजतः।


📖 प्राग्लिखित प्रश्नाः उतराणि :- (Answers)

(क) ताः

(ख)  सा

(ग) ते

(घ) ताः

(ड) ते


🌻 अधः लिखित श्लोकं उच्चारण प्रयासं कुरू  :-  

श्रीमद्रामायण महाकाव्ये "जननि जन्मभूमिश्च स्वर्गादपि गरीयसि" इति श्लोक: वर्तते | 

भावार्थ:- जन्म देने वाली माँ और जन्मभूमि दोनो का ही स्थान स्वर्ग से भी श्रेष्ठ  है। 👏👏

📖 ऐसा श्रीमद्रमायण मे कहा गया है।📖


🌻तृतीय पाठः 🌻

अभ्यासः

१ उच्चारणं कुरुत  -

अहम्         आवाम्        वयम्

माम्           आवाम्        अस्मान्

मम           आवयोः        अस्माकम्

त्वम्           युवाम्           यूयम्

त्वाम्          युवाम्           युष्मान्

तव            युवयोः          युष्माकम्


🌻 तृतीय पाठः 🌻

📖 निर्देशानुसारं परिवर्तनं कुरुत -

यथा - अहं क्रीडामि। (बहुवचने)- वयं क्रीडामः

(क) अहं नृत्यामि।  (बहुवचने) ..........?

(ख) त्वं पठसि। (बहुवचने) .............?

(ग) युवां गच्छथः। (एकवचने) ..........?

(घ) अस्माकं पुस्तकानि। (एकवचने)- ............?

(ड) तव गृहम्।  (द्विवचने)- ............?


📖 प्राग्लिखित प्रश्नाः उतराणि :- (Answers)

(क) वयम् नृत्यामः।

(ख) यूयम पठथः।

(ग) त्वम् गच्छसि।

(घ) मम् पुस्तकम्।

(ड) युवयोः गृहम्।


📖 कोष्टकात् उचितं विकल्पं चित्वा रिक्तस्थानानि पुरयत -

(क).............. पठामि। (वयम्/अहम्)

(ख)............. गच्छथः। (युवाम्/यूयम्)

(ग) एतत्............पुस्तकम्। (माम्/मम)

(घ)........क्रीडकानि (युष्मान्/युष्माकम्)

(ड).............छात्रे स्वः। (वयम्/आवाम्)


प्राग्लिखित प्रश्ना उतराणि -

(क) अहम्

(ख) युवाम्

(ग) मम

(घ) यष्माकम्

(ड) आवाम्


📖 उचितपदैः वाक्यनिर्माणं कुरुत -

मम     तव    आवयोः     युवयोः

अस्माकम्      युष्माकम्

यथा - एषा मम पुस्तिका।

(क) एतत् ......................गृहम् ।

(ख) ........................मैत्री दृढा ।

(ग) एषः ..................... विद्यालयः ।

(घ) एषा ................... अध्यापिका ।

(ड) भारतम् .......................देशः ।

(च) एतानि ...................पुस्तकानि ।


संस्कृतम्:

📖 प्राग्लिखित प्रश्नाः उतराणि :- (Answers)

(क) मम

(ख) आवयोः

(ग) युष्माकम् /अस्माकम्

(घ) तव

(ड) अस्माकम्

(च) मम / अस्माकम्

🌻 अद्य अतिरिक्तं कार्यः 🌻

    पुनर्दर्शनम् सकलं सप्ताहः लेखानि ।

🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरूत  :-

             🌻 भावार्थः 🌻

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।

मामकाः पाण्डवाक्ष्चैव किमकुर्वत संजय ।।१।।

हे संजय! धर्मभूमि कुरुक्षेत्रमें एकत्रित युद्धकी इच्छावाले मेरे और पाण्डुके पुत्रोंने क्या किया?

अधः लिखित कथां उच्चारणं प्रयास कुरुत - 🗣🗣

        🌻 सहिष्णुतायाः फलम् 🌻

आसीत् कोऽपि साधुः । एकदा स क्वचिद् गच्छति स्म । मार्गे स पश्यति यत् कश्चित् युवकः हस्तेन तुम्बर वादयन् अश्लीलगीतानि गायन् आस्ते ।

साधुः तत्समीपं गत्वा तिष्ठति उच्चैः आक्रोशितुं च आरभते — “प्रभुवर, त्वं सर्वमहान् । त्वमेव सर्वेषां रक्षकः । त्वां विनाऽस्य संसारस्य एकं पर्णमपि चलितुं न शक्नोति ।”

युवकः हर्षमत्तः गायति स्म । साधुम् आक्रोशन्तं दृष्ट्वा सोऽतिव कुपितः चीत्कृत्य अवदत् — “तूष्णीं भव । किं प्रजल्पसि ?”

साधुः तस्य वचने कर्णं न अदात् । स पुनरपि अवदत् — “हे प्रभो, बुद्धिहीनाय बुद्धिं देहि ।”

एतत् श्रुत्वा युवकः अत्यन्तं कृद्धः सन् तं तुम्बरेण सबलं शिरसि अताडयत् । तुम्बरं खण्डशः अभवत् । साधोः मस्तकाद् रक्तधारा अस्रवत्, परं स शब्दं न उच्चरन् अग्रे प्रस्थितः ।

स्वकुटीम् आगत्य स सर्वमपि वृत्तं शिष्याय निवेद्य अवदत् — “त्वं तं युवकम् उपगम्य तस्मै तुम्बरस्य मूल्यं मिष्टान्नपूर्णां स्थालीं च प्रयच्छ । अतिगर्ह्यः खलु क्रोधः । खिद्येऽहं यत् मम हेतोः स इदृक् कुपितः ।”

शिष्यः तुम्बरमूल्यं मिष्टान्नानि च गृहित्वा तत्र गत्वा तमवदत् — “इमानि द्रव्याणि साधुना तुभ्यं प्रेषितानि ।”

एतत् श्रुत्वा तत्कालं युवकस्य नेत्रे उन्मीलिते । स धावं धावं साधुम् उपगतः । स्वकार्याय च क्षमां प्रार्थयत ।

साधुः तम् अत्यन्तप्रेमपूर्वकं वक्षसा आलिङ्गितवान् ।

🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत -

सञ्जय उवाच

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।

आचार्यमुपसंगम्य राजा वचनमब्रवीत् ।।२।।

इसपर सञ्जय बोले-

उस समय राजा दुर्योधनने व्यूहरचनायुक्त पाण्डवोंकी सेनाको देखकर और द्रोणाचार्यके पास जाकर (यह) वचन कहा।

📖 एकवचपदस्य बहुवचनपदं, बहुवचनपदस्य , एकवचनपदं च लिखत -


यथा -        एषः                   एते

      (क)    सः              ............. ।

      (ख)   ताः             ............. ।

       (ग)    त्वम्            ............. ।

       (घ)   एताः           ............. ।

       (ड)   तव             ............. ।

      (च)  अस्माकम्      .............. ।

       (छ)  तानि            ............... ।

📄 प्राग्लिखित प्रश्नाः उतराणि -  (Answers)

(क) ते

(ख) सा

(ग) यूयम्

(घ) एषा

(ड) युष्माकम्

(च) मम

(छ) तत्

🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत -

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।

व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ।।३।।

              🌻 भावार्थ 🌻

हे आचार्य! आपके बुद्धिमान् शिष्य द्रुपदपुत्र धृष्टधुन्मद्वारा व्यूहाकार खड़ी की हुई पाण्डु-पुत्रोंकी इस बड़ी भारी सेनाको देखिये।

🌻 अधः लिखित श्लोकाः उच्चारणं प्रयास कुरु -

अत्र शूरा महेष्वासा भीमार्जुनसमा युधी।

युयुधानो विराटश्च द्रुपदश्च महारथः ।।४।।

धृष्टकेतुश्चेकितानः काशिराजश्च  वीर्यवान्।

पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ।।५।।

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्।

सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः।।६।।

🌻 भावार्थ 🌻

इस सेनामें बड़े बड़े धनुषोंवाले तथा युद्धमें भीम और अर्जुनके समान शूर-वीर सात्यकि और विराट तथा महारथी राजा द्रुपद, धृष्टकेतु और चेकितान तथा बलवान् काशिराज, पुरुजित्, कुन्तिभोज और मनुष्योंमें श्रेष्ट शैब्य, पराक्रमी युधामन्यु तथा बलवान् उत्तमौजा, सुभद्रापुत्र अभिमन्यु एवं द्रौपदीके पाँचों पुत्र -(ये) सभी महारथी हैं।

अधः लिखित लेख्यबन्ध उच्चारणं प्रयास कुरुत -  🗣 🗣

        👏 ब्रह्मा (Brahma ) 👏

ब्रह्मा जगतः प्रवर्तकः । जगतः पालनकर्ता विष्णुः,संहारकर्ता शिवः तथैव ब्रह्मा सृष्टिकर्तारूपेण स्थितः। वैदिकदेवता प्रजापतेः साकं अस्य अभेदः कल्पितुं शक्यते। किन्तु वेदान्तदर्शनस्य सर्वोच्चदिव्यसत्त्वा ब्रह्मोऽपलब्धिः योऽस्ति स तु भिन्नविषयः।संस्कृतव्याकरणदृष्ट्या 'ब्रह्मन्' इति प्रातिपदिकस्य पृथक् द्वे शब्दरूपे प्रचलतः। एकं रूपं 'ब्रह्मन्' इति नपुंसकलिङ्गे प्रचलति। यस्य कर्तरि प्रथमाया एकवचनर रूपं भवति ' ब्रह्म'। अस्य विशेष्यस्य साधारण-विमूर्तश्च द्वौ अर्थौ स्तः। अपरपक्षे पुं-लिङ्गे ' ब्रह्मन् ' इति शब्दरूपस्य प्रथमाएकवचनरूपं ' ब्रह्मा ' भवति। अस्य प्रयोगः जगतः प्रवर्तकरूपेण एव प्रसिद्ध:। अस्य विषयैव अस्माकं निबन्धः। सृष्टेः प्रारम्भकाले ब्रह्मणा प्रजपतयः रचिता। एते प्रजापतय एव मानवानाम् आदिपितरः भवन्ति। मनुस्मृतौ एतेषां नामानि वर्तन्ते।(मारीचि, अत्रिः, अङ्गिरसः, पुलस्तः, पुलहः, क्रतुजः, वशिष्टः, प्रचेतसः वा दक्षः, भृगुः, नारदश्च ) एते ' सप्तर्षिः' नाम्ना ख्यातः। एते ब्रह्मणः मानसपुत्राः भवन्ति। यथा अस्य (ब्रह्मणः) देवतानां विषये हस्ताक्षेपः न तथा नश्वरानां (मानवानां) विषये भवति। ब्रह्मा अत्रि-धर्मयोः पितारूपेऽपि स्थितः। ब्रह्मा अरुणवस्त्रं परिधरति। ब्रह्मा चतुर्भुजः चतुर्मुखश्च। इतरदेवतावत् ब्रह्मा अस्त्रं वा शस्त्रं वा न धरति। सः एकहस्ते दण्डम् अन्यहस्ते पुस्तकञ्च धरति। जपमाला तथा वेदाः इतरहस्तौ भवन्ति। 

                  🌻🌻🌻

अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत - 🗣 🗣

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।

नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ।।७।।

              🌻 भावार्थ 🌻

हे ब्राह्मणश्रेष्ठ! अपने पक्षमें भी जो प्रधान हैं, उनको (आप) समज लीजिये। आपकी जानकारीके लिये मेरी सेनाके (जो-जो) सेनापति (हैं), उनको बतलाता हूँ।

🗣 🗣 लेख्यबन्ध उच्चारणं प्रयास कुरुत -

 

             🌳 वृक्षाः 🌳

वने वने निवसन्तो वृक्षाः ।

वनं वनं निवसन्ति वृक्षाः ।१।

शाखादोलासीना विहगाः ।

तैः किमपि कूजन्ति वृक्षाः ।२।

पिबन्ति पवनं जलं सन्ततम् ।

साधुजना इव सर्वे वृक्षाः ।३।

स्पृशन्ति पादैः पातालं च ।

नभः शिरस्सु वहन्ति वृक्षाः ।४।

पयोदर्पणे स्वप्रतिबिम्बम् ।

कौतुकेन पश्यन्ति वृक्षाः ।५।

प्रसार्या स्वच्छायासंस्तरणम् ।

कुर्वन्ति सत्कारं वृक्षाः ।६।


             🌻 शब्दार्थाः 🌻

१. वने वने  -   प्रत्येक वन में ।

२. स्वच्छायासंस्तरणम् - अपनी छाया रुपी बिस्तर को ।

३. निवसन्तः  -  रहने वाले / रहते हुए

४. रचयन्ति     - रचते है , बनाते है ।

५. दोला         - झूला

६. आसीनाः     - बैठे हुए

७. विहगाः        - पक्षीगण

८. किमपि        - कुछ भी

९. कूजन्ति      -  कूकते है / कूकती है ।

१०. सन्ततम्       - निरन्तर / लगातार

११. साधुजनाः   - तपस्वी लोग / सज्जन

१२. इव              - की तरह

१३. पिबन्ति         - पीते है

१४. स्पृशन्ति         - स्पर्श करते है ।

१५. नभः             - आकाश को

१६. शिरस्सु          - सिर पर

१७. वहन्ति          - ढोते है ।

१७. पयोदर्पणे   - आइने मे /जलरुपी दर्पण

१९. स्वप्रतिबिम्बम्  - अपने प्रतिबिम्ब को।

२०..पश्यन्ति          -  देखते है ।

२१. कौतुकेन         - आश्चर्य से ।

२२. प्रसार्य           - फैलाकर      

२३. सत्काम्         - आदर

🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत - 🗣 🗣

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ।।८।।

                      🌻 भावार्थ 🌻

एक तो स्वयम्-आप-- द्रोणाचार्य और पितामह भीष्म तथा कर्ण और संग्रामविजयी कृपाचार्य तथा वैसे ही अश्वत्थामा, विकर्ण और सोमदत्तका पुत्र भूरिश्रवा

👏👏  सूर्यः (Sun )

सूर्यः किञ्चन नक्षत्रं विद्यते । किन्तु ज्योतिष्शास्त्रदृष्ट्या अयं कश्चन ग्रहः इति निर्दिश्यते । खगोलपदार्थेषु सूर्यः अत्यन्तं प्रमुखः अस्ति । तदीयाः किरणाः भूमेः उपरि अन्येषां ग्रहाणाम् उपरि प्रकाशम् उष्णतां च प्रसरन्ति । सूर्यस्य आकर्षणपरिधौ एव अन्येषां ग्रहाणां सञ्चलनं भवति । नित्यजीवनव्यवहारे तस्य प्रभावः अस्ति अनन्यः। सूर्यं विना मानवजीवनस्य कल्पना अपि अशक्या एव। सूर्यस्य व्यासः भवति ८,६५,००० मैल्-परिमितम् । भूमेःविस्तारस्य अपेक्षया १३,००,००० गुणितम् अधिकम् । द्रव्यराशिः भूमेः अपेक्षया ३,३३,००० गुणितम् अधिकम् । अणुप्रक्रियया सूर्ये शक्त्युत्पादनं भवति । सूर्ये प्रचाल्यमानया अनया क्रियया जलजनकः हीलियं-धातुरूपेण परिवर्तिताः भवन्ति इत्यतः द्रव्यराशौ प्रत्येकस्मिन् क्षणे चत्वारि-मिलियन्-टन्-परिमितः भागः न्यूनः भवति । सूर्यः यस्यां वियद्गङ्गायां परिभ्रमति तस्याः केन्द्रभागतः बहु दूरे सीमाप्रदेशे विद्यते । वियद्गङ्गायाः केन्द्रतः सूर्यः ३०,००० ज्योतिर्वर्षाणाम् अन्तरे विद्यते ।

🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत - 🗣 🗣

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।९।।

       

           🌻 भावार्थ 🌻

तथा और भी मेरे लिये जीवनकी आशा त्याग देनेवाले बहुत-से शूर-वीर अनेक प्रकारके शस्त्रास्त्रोंसे सुसज्जित , और सब-के-सब युद्धमें चतुर हैँ।

🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत - 🗣 🗣 

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।१०।।


               🌻 भावार्थ 🌻 

और भीष्मपितामहद्वारा रक्षित हमारी वह सेना सब प्रकारसे अजेय है और भीमद्वारा रक्षित इन लोगोंकी यह सेना जितनेमें सुगम है।

शिवा लेखबन्ध 🌻

         👏👏   शिवः (Shankar )

शिवः सनातनधर्मस्य प्रमुखः देवः अस्ति। सः एव विश्वनाशकोऽस्ति। तस्य सती, पार्वती द्वे भार्ये। सः भस्मेन अवलिप्तः। नीलकण्ठः सः कण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां मुकुटे च शशिनं धरति। तस्य करे डमरु-त्रिशूलश्च शोभते। त्रिशूलः त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्म वस्त्रमिव परिगृह्णाति । सः पञ्चाननः इति नाम्ना अपि प्रसिद्धः। तस्य विविधानि रूपाणि सन्ति। सः नूतनैः रूपैः लक्षणैश्च प्रतीयते। शिवः साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते। ध्यानमग्नस्य ताण्डवनृत्यरतस्य च शिवस्य मूर्तिः ख्यातः। 'शिवम्' इति विशेषणवाचकशब्दस्य अर्थः शुभं मङ्गलं च । नामरूपेण 'शिवः' इत्यस्य अर्थः मङ्गलमयः इति । विशेषणरूपेण शिवश्शब्दस्य प्रयोगः न तु केवलं शिवाय अपितु इतरवैदिकदेवदेवीनां अभिधारूपेण व्यवहृतः आसीत्। ऋग्वेदे इन्द्रः एकाधिकस्थले स्ववर्णनायाम् अस्य शब्दस्य(शिवः इति) प्रयोगं कृतवान्।

विष्णुसहस्रनामस्तोत्रे विष्णोः २७ च ६००तमनामरूपेण शिवः एकाधिकार्थे प्रयुक्तः यथा- "पवित्रपुरुषः", "प्रकृते: त्रिगुणातीतः(सत्त्व-रज-तमः) य:", "यस्य नामोच्चारणमात्रेणैव मनुष्यस्य पापमुक्तिः भवति"।(श्री विष्णुसहस्रनाम,रामकृष्णमठसंस्करणम्, पृ.४७ एवं पृ. १२२.) शिवनामसम्बलित-"शिवसहस्रनामस्तोत्र"स्य पाठान्तरमपि लभ्यते।(शर्मा, रामकरण,१९९६) महाभारतस्य त्रयोदशपर्वणि(अनुशासनम्)शिवसहस्रनामस्तोत्रस्य मूलमिति विवेचितास्ति।(चिद्भवानन्द: पृ- ५) महान्यासे शिवस्य "दशसहस्रनामस्तोत्र"मपि लब्धम् अस्ति। "शतरुद्रीयम्" इति श्री रुद्रचमकस्तोत्रेऽपि शिवस्य विविधनामानि वर्तन्ते। | शिवस्य एकं गुरुत्वपूर्णवैशिष्ट्यं भवति तृतीयनयनम्। एतेन कामदेव: भस्मीभूतः अभवत् । शिवस्य त्र्यम्बकमिति नाम्नः अपि त्रिनयनसमन्वितः इत्येवार्थः। शिव अर्धचन्द्रं शिरसि धरति। अतः तस्य अपरनाम "चन्द्रशेखरः" इति। रुद्रस्य शिवरुपे विवर्तनस्यादियुगतः एव अर्धश्चन्द्र: शिवस्य एकः वैशिष्टः। सम्भवतः वैदिकसाहित्ये तथा परवर्तीसाहित्येऽपि चन्द्रदेवता सोमः तथा रुद्रयोः एकीकरनसूत्रैव शिवस्य अस्य वैशिष्टस्योत्पत्तिः स्यात्।शिवस्य केशराशिजटाबद्धः। एतस्मात् शिवः जटी,कपर्दी (कपर्द्वत् केशयुक्तः) इत्यपि उच्यते।

🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत - 🗣 🗣

अयनेषु च सर्वेषु यथाभागमवस्थिताः।

भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ।।११।।

            🌻 भावार्थ 🌻

इसलिये सब मोर्चोंपर अपनी अपनी जगह स्थित रहते हुए आपलोग सभी निःसन्देह भीष्मपितामहकी ही सब ओरसे रक्षा करें।

🌻अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत -  🗣 🗣

तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः।

सिंहनादं विनघोच्चैः शङ्खं दध्मौ प्रतापवान्।।१२।।

             🌻 भावार्थ 🌻

इस प्रकार द्रोणाचार्यसे कहते हुए दुर्योधनके वचनोंको सुनकर - कौरवोंमें वृद्ध बड़े प्रतापी पितामह भीष्मने उस (दुर्योधन)के (हृदयमें) हर्ष उत्पन्न करते हुए उच्च स्वरसे सिंहकी दहाड़ के समान गरजकर शंख बजाया।

संस्कृतम् 

              उच्चारणम् प्रयास कुरुत - 

       .     🌻वाल्मीकिः (Valmiki )🌻

वाल्मीकिमहर्षिः  श्रीमद्रामायणस्य कर्ता । अयम् आदिकविरित्युच्यते ।अस्य पिता प्रचेताः। रत्नाकरः इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म । एकदा तस्मिन् मार्गे नारदमहर्षिःसमागतः । नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान् । रत्नाकरः यथार्थमवगच्छति । ज्ञानोदयः सञ्जायते ।रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण सीता परित्यक्ता । तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत् । आश्रमे एव कुशलवयोः जननमभवत् । बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः । अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ।एकदा वाल्मिकिमहर्षिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदीं प्रति गतवान् आसीत् । स्वप्रियतमस्य वियोगेन बहु दुःखितां पक्षिणीं दृष्ट्वा आर्द्रचित्तः वाल्मीकिः झटिति तस्मै व्याधाय शापं प्रायच्छत् ।तस्य मुखात् शापः श्लोकरूपेण निःसृतः ।

🌻अधः लिखित श्लोकं उच्चारणं प्रयास कुरूत -  🗣 🗣

ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः।

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोभवत्।।१३।।

               🌻 भावार्थ 🌻

इसके पश्चात् शङ्ख और नगारे तथा ढोल,मृदंग और नरसिंघे आदि बाजे एक साथ ही बज उठे। (उनका) वह शब्द बड़ा भयंकर हुआ।

I hope you enjoyed practicing sanskrit, to get new articles keep visiting my blogs regularly

😊😊😊have a good day😊😊😊

Post a Comment

0 Comments